चित्राङ्गदा !

चित्राङ्गदार्जुनयोः परिणयवृत्तम्।

Originally published in mr
Reactions 4
575
Omprakash Panda
Omprakash Panda 06 Sep, 2020 | 1 min read
Love The Poetry Blast


चित्राङ्गदार्जुनौ

चित्राङ्गदार्जुनौ

इतोपि किमपेक्षते कौन्तेय ?

किं वास्ति अदेयम् ?

चपलचतुरनयनमायया तत्क्षणात् आमूलं चोरितं मे मानसम्।

मन्येऽहम् ! एतावता नैव तुष्टस्तं सृष्टिविनाशक्रियया !

तव कारणात् अद्यापि अश्र्वापतति नयनकोणे फाल्गुनी !

आपातनिष्कृत्यै स्वीयापत्यमपि प्रतार्यते मया।

तथापि निर्विकारस्तं !

निर्विचारे निर्लिप्तोऽसि जनहितकर्मणि ।

अनुभवसि किं मनिपुरराजकन्यायाः अव्यक्तवेदना ?

तस्मिन् प्रथमेक्षणे --------

तव लोचनाभ्यां दुर्निवारदर्पस्य प्रस्फुरणं दृष्ट्वा आह्लादितः मे मनः।

प्रतिदाने ? तव चरमोपेक्षा,

अवाञ्छितावज्ञा तथा अप्रत्याशितावहेलनम् ।

तथापि अनुभाव्यते अनिर्वचनीयमाकर्षणम् ।

ततस्तमागतः !

निर्निमेषे कानने मम आस्वादिता यौवनसुधा।

स्नेहतरङ्गप्लाविता तव चित्राङ्गदा।

ततः निक्षिप्तोऽहम् !

तदारभ्यः निःसङ्गं निस्तब्धं मे मानसम्।

अवरुद्धस्तमिन्द्रप्रस्थमोहे !

कृष्णासुभद्रयोः स्न्तेहान्तरिक्षे विस्मृतस्त्वं चित्राङ्गदाम्।

पार्थक्यं कुत्र ? हे श्वेतवाहन !

छलना कृता, सिद्धो भव प्रतिच्छलनाप्रप्तये !

"पाञ्चाली" तव शौर्यस्य पुरस्कारः,

"सुभद्रा" सख्यतायाः उपहारः।

"चित्राङ्गदा" किं तव अवसरविनोदोपकरणम् ?

संयतेन्द्रियो भव हे कपिध्वज !

तृप्तो भव,सीम्नि भव, निमज्जयतु तवाहङ्काराग्निः ।

निरहङ्कारस्नेहितः अमृतस्पर्शेण पुनरपि स्वागतं तेऽर्जुनः ।

4 likes

Published By

Omprakash Panda

im_omprakash

Comments

Appreciate the author by telling what you feel about the post 💓

  • Bithika Kundu · 3 years ago last edited 3 years ago

    samyak upasthapanam...sobhanamidam...👌

  • ARAVIND SHANBHAG, Baleri · 3 years ago last edited 3 years ago

    Sundar katha. Abhinandanam

  • Omprakash Panda · 3 years ago last edited 3 years ago

    @Aravinda ji @Bithika ji धन्यवादाः 🙏

Please Login or Create a free account to comment.